उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह —
यत्तदिति ।
न हेति प्रतीकमादाय व्याचष्टे —
नैवेति ।
अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः ।
इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति —
यस्मादित्यादिना ।
तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।
खिल्याभावापत्तिकार्यं कथयति —
मर्त्येत्यादिना ।
कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह —
नामरूपेति ।
कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।
यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह —
स खिल्यभाव इति ।
खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि ।
केन रूपेणैकरस्यं तदाह —
प्रज्ञानेति ।
तस्यापरिच्छिन्नत्वमाह —
अनन्त इति ।
तस्य सापेक्षत्वं वारयति —
अपार इति ।
प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह —
अविद्येति ।
भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —
तस्मिन्निति ।
महत्त्वं साधयति —
सर्वेति ।
भूतत्वमुपपादयति —
त्रिष्वपीति ।
महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह —
लौकिकमिति ।
जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः ।
अवधारणरूपमर्थमेव स्फोरयति —
नान्यदिति ।
एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह —
यदीदमिति ।
वस्तुतः शुद्धत्वे किं सिध्यति तदाह —
संसारेति ।
तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह —
किंनिमित्त इति ।
खिल्यभावमेव विशिनष्टि —
जात इति ।
अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् ।
खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह —
उच्यत इति ।
एतच्छब्दार्थं व्याकरोति —
यानीति ।
स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः ।
तानि व्यवहारसिद्ध्यर्थं विशिनष्टि —
नामरूपात्मकानीति ।
तेषामतिदुर्बलत्वं सूचयति —
सलिलेति ।
स्वच्छत्वे दृष्टान्तमाह —
सलिलोपमस्येति ।
तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह —
येषामिति ।
उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —
नदीति ।
हेतौ पञ्चमीति दर्शयति —
हेतुभूतेभ्य इति ।
पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह —
सत्येति ।
यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —
सैन्धवेति ।
समुत्थानमेव विवृणोति —
यथेत्यादिना ।
तान्येवेत्यादि व्यचष्टे —
येभ्य इति ।
खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् ।
ब्रह्मविद्योत्पत्तौ हेतुमाह —
शास्त्रेति ।
तत्फलं सदृष्टान्तमाचष्टे —
नदीति ।
यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह —
सलिलेति ।
किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —
यथेति ।
तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —
नास्तीति ।
ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —
शरीरावस्थितस्येति ।
सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥