बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ६ ॥
तथा दिशो मधु । दिशां यद्यपि श्रोत्रमध्यात्मम् , शब्दप्रतिश्रवणवेलायां तु विशेषतः सन्निहितो भवतीति अध्यात्मं प्रातिश्रुत्कः — प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥

आदित्यगतं न्यायं दिक्षु संपादयति —

तथेति ।

‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’(ऐ.उ.१-२-४) इति श्रुतेः श्रोत्रमेव दिशामध्यात्मं तथा चाध्यात्मं श्रौत्र इत्येव वक्तव्ये कथं प्रातिश्रुत्क इति विशेषणमित्याशङ्क्याऽऽह —

दिशामिति ।

तथाऽपीत्यस्मिन्नर्थे तुशब्दः ॥६॥