पर्जन्योऽपि विद्युदादिवत्सर्वेषां भूतानां मधु भवतीत्याह —
तथेति ।
अध्यात्मं शाब्दः सौवर इत्यस्यार्थमाह —
शब्दे भव इति ।
यद्यप्यध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषस्तथाऽपि स्वरे विशेषतो भवतीत्यध्यात्मं सौवरः पुरुष इति योजना ॥९॥