समानार्थत्वे किमिति पुनरुच्यते तत्राऽऽह —
मन्त्रान्तरेति ।
तुल्यार्थस्य ब्राह्मणस्य तात्पर्यमाह —
तथेति ।
विशेषणकृत्यं दर्शयन्व्याकरोति —
दध्यङ्नामेति ।
प्रथममश्व्यमित्यादि पदार्थवचनमवश्वस्येत्यादौ छित्त्वेत्यस्य कर्मोक्तिरवश्व्यं शिर इत्यत्र त्वन्यार्थमुक्तमिति विभागः ।
प्रेक्षापूर्वकारिणामीदृशी प्रवृत्तिरयुक्तेति शङ्कित्वा समाधत्ते —
स किमर्थमिति ।
ऋतायन्नित्यत्रार्थसिद्धमर्थं कथयति —
जीवितादपीति ।
“यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तम् ।” इत्यादिश्रुत्यन्तरमाश्रित्याऽऽह —
यज्ञस्येत्यादिना ।
प्रवर्ग्यकर्मण्येवं प्रवृत्तेऽपि प्रकृते विज्ञाने किमायातं तदाह —
तत्रेति ।
उक्तमेव संगृह्णाति —
यज्ञस्येति ।
यद्यथोक्तं दर्शनं तत्वाष्ट्रं मधु यच्च तन्मधु तत्प्रवोचदिति संबन्धः अध्यायद्वयप्रकाशितं तृतीयचतुर्थाभ्यामध्यायाभ्यां प्रकटमिति यावत् ॥१७॥