उक्तमन्त्राभ्यां वक्ष्यमाणमन्त्रयोरपुनरुक्तत्वादर्थवत्त्वं वक्तुं वृत्तं कीर्तयति —
उक्ताविति ।
आख्यायिकाविशेषणप्राप्तं संकोचं परिहरति —
द्वयोरिति ।
उत्तरमन्त्रद्वयप्रवृत्तिं प्रतिजानीते —
ब्रह्मेति ।
संप्रत्यवान्तरसंगतिमाह —
यत्कक्ष्यं चेति ।
हिरण्यगर्भकर्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रकरणबलादीश्वरकर्तृकमित्याह —
यत इति ।
शरीरसृष्ट्यपेक्षया लोकसृष्टिप्राथम्यं पुरस्ताद्देहसृष्ट्यनन्तरं प्रवेशात्पूर्वमिति यावत् ।
स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति —
नेत्यादिना ।
वाक्यद्वयस्यैकार्थत्वमाशङ्क्य सर्वं जगदोतप्रोतत्वेनाऽऽत्मव्याप्तमित्यर्थविशेषमाश्रित्याऽऽह —
बाह्यभूतेनेति ।
पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिमाश्रित्य फलितमाह —
एवमिति ।
मन्त्रब्राह्मणयोरर्थवैमत्यमाशङ्क्याऽऽह —
पुर इति ॥१८॥