ब्रह्मविद्यां संक्षेपविस्तराभ्यां प्रतिपाद्य वंशब्राह्मणतात्पर्यमाह —
अथेति ।
महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः ।
ब्राह्मणस्यार्थान्तरमाह —
मन्त्रश्चेति ।
स्वाध्यायः स्वाधीनोच्चारणक्षमत्वे सत्यध्यापनं जपस्तु प्रत्यहमावृत्तिरिति भेदः ।
यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह —
तत्रेति ।
तदेव स्फुटयति —
यथेति ।
शिष्यावसानोपलक्षिणीभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलपर्यन्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः ।
वंशशब्देन निष्पन्नमर्थमाह —
अध्यायचतुष्टयस्येति ।
अथात्र शिष्याचार्यवाचकशब्दाभावे कुतो व्यवस्थेति तत्राऽऽह —
तत्रेति ।
परमेष्ठिब्रह्मशब्दयोरेकार्थत्वमाशङ्क्याऽऽह —
परमेष्ठीति ।
कुतस्तर्हि ब्रह्मणो विद्याप्राप्तिस्तत्राऽऽह —
तत इति ।
स्वयम्प्रतिभातवेदो हिरण्यगर्भो नाऽऽचार्यान्तरमपेक्षते । ईस्वरानुगृहीतस्य तस्य, बुद्धावाविर्भूताद्वेदादेव विद्यालाभसंभवादित्यर्थः ।
कुतस्तर्हि वेदो जायते तत्राऽऽह —
यत्पुनरिति ।
परस्यैव ब्रह्मणो वेदरूपेणावस्थानात्तस्य नित्यत्वान्न हेत्वपेक्षेत्यर्थः ।
आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे —
तस्मा इति ॥१–२–३॥