श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टुरव्यवहितं ब्रह्माद्वितीत्वादित्याह —
न श्रोत्रेति ।
उक्तमव्यवधानमाकाङ्क्षाद्वाराऽनन्तरवाक्येन साधयति —
किं तदित्यादिना ।
तस्य परिच्छिन्नत्वशङ्कां वारयति —
सर्वस्येति ।
सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दैर्विशेषणानीति विभागमभिप्रेत्याऽऽह —
यद्यः शब्दाभ्यामिति ।
इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्नसमाप्त्यर्थः ।
तमेव प्रश्नं विवृणोति —
विस्पष्टमिति ।
त्वमर्थे वाक्यार्थान्वययोग्ये पृष्टे तत्प्रदर्शनार्थं प्रत्युक्तिमवतारयति —
एवमुक्त इति ।
सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशेषणान्तराणामनास्थामाशङ्क्यऽऽह —
सर्वविशेषणेति ।
एष सर्वान्तर इति भागस्यार्थं विवृणोति —
यत्साक्षादिति ।
एषशब्दार्थं प्रश्नपूर्वकमाह —
कोऽसाविति ।
आत्मशब्दार्थं विवृणोति —
योऽयमिति ।
येनेत्यत्र सशब्दो द्रष्टव्यः ।
षष्ठ्यर्थं स्पष्टयति —
तवेति ।
प्रश्नान्तरमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
सर्वान्तरस्तवाऽऽत्मेत्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् ।
कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह —
सर्वा इति ।
या खल्वचेतनप्रवृत्तिः सा चेतनाधिष्ठानपूर्विका यथा रथादिप्रवृत्तिरित्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः ।
दृष्टान्तस्य साध्यवैकल्यं परिहरति —
न हीति ।
संप्रत्यनुमानमारचयति —
तस्मादिति ।
विमता चेष्टा चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिचेष्टावदित्यर्थः । प्रतिपद्यते प्राणादीतिशेषः ।
अनुमानफलमाह —
तस्मात्सोऽस्तीति ।
चेष्टयति कार्यकरणसंघातमिति शेषः ॥१॥