एतं वै तमित्यादिवाक्यस्य विधायकत्वमुपेत्य सर्वकर्मतत्साधनपरित्यागपरत्वमुक्तमाक्षिपति —
नन्विति ।
इतश्च यज्ञोपवीतमपरित्याज्यमित्याह —
यज्ञोपवीत्येवेति ।
याजनादिसमभिव्याहारादसंन्यासिविषयमेतदित्याशङ्क्याऽऽह —
पारिव्राज्ये तावदिति ।
वेदत्यागे दोषश्रुतेस्तदत्यागेऽपि कथं पारिव्राज्ये यज्ञोपवीतित्वमित्याशङ्क्याऽऽह —
उपासन इति ।
इत्यनेन वाक्येन गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्परिव्राजकधर्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदितत्वाद्यज्ञोपवीतपरित्यागोऽवगन्तुं नैव शक्यत इत्यन्वयः ।
संप्रति प्रौढिमारूढो व्युत्थाने विधिमङ्गीकृत्यापि दूषयति —
यद्यपीत्यादिना
एषणाभ्यो व्युत्थाने सत्येषणात्वाविशेषात्कर्मणस्तत्साधनाच्च व्युत्थानं सेत्स्यतीत्याशङ्क्य यज्ञोपवीतादेरेषणात्वमसिद्धमित्याशयेनाऽऽह —
सर्वेति ।
अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्यादिस्मृतिमाश्रित्य दूषणमाह —
तथा चेति ।
ननु दृश्यते यज्ञोपवीतादिलिङ्गत्यागः स कस्मान्निराक्रियते तत्राऽऽह —
तस्मादिति ।