बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःसप्तमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥
स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति — तदर्थं प्रश्नान्तरमुत्थापितम् ; अतस्तन्निर्णयाय आह — वायुर्वै गौतम तत्सूत्रम् ; नान्यत् ; वायुरिति — सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम् , यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम् , यत्तत्समष्टिव्यष्ट्यात्मकम् , यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समुद्रस्येवोर्मयः — तदेतद्वायव्यं तत्त्वं सूत्रमित्यभिधीयते । वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्ग्रथितानि भवन्तीति प्रसिद्धमेतत् ; अस्ति च लोके प्रसिद्धिः ; कथम् ? यस्मात् वायुः सूत्रम् , वायुना विधृतं सर्वम् , तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति — व्यस्रंसिषत विस्रस्तानि अस्य पुरुषस्याङ्गानीति ; सूत्रापगमे हि मण्यादीनां प्रोतानामवस्रंसनं दृष्टम् ; एवं वायुः सूत्रम् ; तस्मिन्मणिवत्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे अवस्रंसनमङ्गानाम् । अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति । एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम् ; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्तः आह ॥

याज्ञवल्क्योक्तेस्तात्पर्यमाह —

ब्रह्मलोका इति ।

इत्यभीष्टमागमविदामित्यध्याहृत्याऽऽद्यस्येतिशब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् ।

वैशब्दार्थमाह —

नान्यदिति ।

सूक्ष्मत्वे दृष्टान्तमाह —

अकाशवदिति ।

वायुमेव विशिनाष्टि —

यदात्मकमिति ।

पञ्च भूतानि दश बाह्यानीन्दियाणि पञ्चवृत्तिः प्राणश्चतुर्विधमन्तःकरणमिति सप्तदशविधत्वम् ।

कर्मणां वासनानां चोत्तरसृष्टिहेतूनां प्राणिभिरर्जितानामाश्रयत्वादपेक्षितमेव लिङ्गमित्याह —

कर्मेति ।

तस्यैव सामान्यविशेषात्मना बहुरूपत्वमाह —

यत्तदिति ।

तस्यैव लोकपरीक्षकप्रसिद्धत्वमाह —

यस्येति ।

तस्य सूत्रत्वं साधयति —

वायुनेति ।

प्रसिद्धमेतत्सूत्रविदामिति शेषः ।

लौकिकीं प्रसिद्धिमेव प्रश्नपूर्वकमनन्तरश्रुत्यवष्टम्भेन स्पष्टयति —

कथमित्यादिना ।

उक्तमेव दृष्टान्तेन व्यनक्ति —

सूत्रेत्यादिना ।

वायोः सूत्रत्वे सिद्धे फलितमाह —

अत इति ॥२॥