बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः —
अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः —

पूर्वस्मिन्ब्राह्मणे सूत्रान्तर्यामिणौ प्रश्नप्रत्युक्तिभ्यां निर्धारितौ संप्रत्युत्तरब्राह्मणतात्पर्यमाह —

अतः परमिति ।

सोपाधिकवस्तुनिर्धारणानन्तर्यमथशब्दार्थः ।