मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायः
अष्टमं ब्राह्मणम्
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (बृहदारण्यक)
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥
सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवान् आकाश एवेति याज्ञवल्क्यः । गार्ग्याह — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव तावत्कालत्रयातीतत्वात् दुर्वाच्यम् , ततोऽपि कष्टतरम् अक्षरम् , यस्मिन्नाकाशमोतं च प्रोतं च, अतः अवाच्यम् — इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये ; अथ अवाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम् ; विरुद्धा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम् ; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी ॥
गार्ग्येति
;
आकाशमेवेति ॥७॥
;
प्रतिवचनानुवादतात्पर्यमाह —
गार्ग्येति ।
प्रश्नाभिप्रायं प्रकटयति —
आकाशमेवेति ॥७॥