बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति । अशनिः वज्रं वीर्यं बलम् , यत् प्राणिनः प्रमापयति, स इन्द्रः ; इन्द्रस्य हि तत् कर्म । कतमो यज्ञ इति पशव इति — यज्ञस्य हि साधनानि पशवः ; यज्ञस्यारूपत्वात् पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥

प्रसिद्धं वज्रं व्यावर्तयति —

वीर्यमिति ।

तदेव संघातनिष्ठत्वेन स्फुटयति —

बलमिति ।

किं तद्बलमिति चेत्तत्राऽऽह —

यत्प्राणिन इति ।

प्रमापणं हिंसनम् ।

कथं तस्येन्द्रत्वमुपचारादित्याह —

इन्द्रस्य हीति ।

पशूनां यज्ञत्वमप्रसिद्धमित्याशङ्क्याऽऽह —

यज्ञस्य हीति ।

कारणे कार्योपचारं साधयति —

यज्ञस्येति ।

अमूर्तत्वात्साधनव्यतिरिक्तरूपाभावाद्यज्ञस्य पश्वाश्रयत्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥