बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ १४ ॥
तम एव यस्यायतनम् । तम इति शार्वराद्यन्धकारः परिगृह्यते ; अध्यात्मं छायामयः अज्ञानमयः पुरुषः ; तस्य का देवतेति — मृत्युरिति होवाच ; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम् ॥

अधिदैवतं मृत्युरीश्वरो मृत्युनैवेदमावृतमासीदिति श्रुतेः । स च तस्याज्ञानमयस्याऽऽध्यात्मिकस्य पुरुषस्योत्पत्तिकारणमविवेकिप्रवृत्तेरीश्वराधीनत्वादीश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति हि पठन्ति तदाह —

मृत्युरिति ॥१४॥