पुनरुक्तिं प्रत्याह —
पूर्वमिति ।
आधारशब्दो भावप्रधानस्तथा च प्रतिबिम्बस्याऽऽधारत्वं यत्र तदित्युक्तं भवति । आदिशब्देन स्वच्छस्वभावं खङ्गादि गृह्यते ।
प्राणेन हि निघृष्यमाणे दर्पणादौ प्रतिबिम्बाभिव्यक्तियोग्ये रूपविशेषो निष्पद्यते । ततो युक्तं प्राणस्य प्रतिबिम्बकारणत्वमित्यभिप्रेत्याऽऽह —
तस्येति ॥१५॥