बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःनवमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य ॥ २० ॥
किन्देवतः का देवता अस्य तव दिग्भूतस्य । असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम् , तद्द्वारेण सर्वं जगत् आत्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः — सप्रतिष्ठावचनात् ; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति — किन्देवतस्त्वमस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति ; तथा च वक्ष्यति — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) इति । अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्यर्थः । इतर आह — आदित्यदेवत इति ; प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः । सदेवा इत्येतत् उक्तम् , सप्रतिष्ठा इति तु वक्तव्यमित्याह — स आदित्यः कस्मिन्प्रतिष्ठित इति, चक्षुषीति ; अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः — ‘चक्षोः सूर्यो अजायत’ (ऋ. सं. १० । ९० । १३) ‘चक्षुष आदित्यः’ (ऐ. उ. १ । १ । ४) इत्यादयः ; कार्यं हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति ; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम् ; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः ; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति ; हृदय इति होवाच ; हृदयारब्धानि रूपाणि ; रूपाकारेण हि हृदयं परिणतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देशः ; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम् ; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्यर्थः । एवमेवैतद्याज्ञवल्क्य ॥

प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह —

असौ हीति

आत्मानमात्मीयमिति यावत् । यथोक्तं ह्रदयमात्मत्वेनोपगम्येति संबन्धः ।

तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह —

पूर्वाभिमुख इति ।

यद्यपि दिगात्माऽहमस्मीति स्थितस्तथाऽपि कथं सर्वं जगदात्मत्वेनोपगम्य तिष्ठतीत्यवगम्यते तत्राऽऽह —

सप्रतिष्ठेति ।

सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनोपगम्य स्थितो मुनिरिति प्रतिभातीत्यर्थः ।

प्रतिज्ञानुसारित्वाच्चायं प्रश्नो युक्तिमानित्याह —

यथेति ।

अहमस्मि दिगात्मेति प्रतिज्ञानुसारिण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातुस्तद्भावायोगादित्याशङ्क्याऽऽह —

सर्वत्र हीति ।

इति न भाविदेवताभावः प्रश्नगोचर इति शेषः ।

उक्तेऽर्थे वाक्यशेषमनुकूलयति —

तथा चेति ।

प्रश्नार्थमुपसंहरति —

अस्यामिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति —

अध्यात्मतश्चक्षुष इति ।

‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्रवादास्तदनुसारिणश्च ब्राह्मणवादाः ।

भवतु कार्यकारणभावस्तथाऽपि कथं चक्षुष्यादित्यस्य प्रतिष्ठितत्वं तत्राऽऽह —

कार्यं हीति ।

कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह —

रूपग्रहणायेति ।

तथाऽपि कथं यथोक्तमाधाराधेयत्वमत आह —

यैर्हीति ।

चक्षुषो रूपाधारत्वे फलितमाह —

तस्मादिति ।

उपसंहृतमर्थं संगृह्णाति —

चक्षुषेति ।

हृदयारब्धत्वं रूपाणां स्फुटयति —

रूपाकारेणेति ।

हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह —

यस्मादिति ।

हृदयशब्दस्य मांसखण्डविषयत्वं व्यावर्तयति —

हृदयमिति ।

कथं पुनर्बहिर्मुखानि रूपाण्यन्तर्हृदये स्थातुं पारयन्ति तत्राऽऽह —

हृदयेन हीति ।

तथाऽपि कथं तेषां हृदयप्रतिष्ठितत्वं तत्राऽऽह —

वासनात्मनामिति ॥२०॥