दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।
दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।
दीक्षायाः सत्ये प्रतिष्ठितत्वमप्रसिद्धमिति शङ्कित्वा समादत्ते —
कथमित्यादिना ।
अपिशब्दोऽवधारणार्थः ।
सत्यं वदेति वदतामभिप्रायमाह —
कारणेति ।
भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः ।
प्रकृतोपसंहारः —
सत्ये हीति ॥२३॥