स्वकीयज्ञानप्रकर्षप्रकटनार्थमेव प्रश्नान्तरमवतारयति —
तेष्विति ।
वृक्षो वनस्पतिरिति पर्यायत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —
वृक्षस्येति ।
तच्च तस्य महत्त्वमाहेत्यपुनरुक्तिः । पुरुषस्य वृक्षसाधर्म्यमेतदित्युच्यते ।
साधर्म्यमेव स्पष्टयति —
तस्येत्यादिना ।
नीरसा त्वगुत्पाटिकेत्युच्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥