पूर्वस्मिन्ब्राह्मणे कानिचिदुपासनानि ज्ञानसाधनान्युक्तानि । इदानीं ब्रह्मणस्तैर्ज्ञेयस्य जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयति —
जनको हेति ।
राज्ञो ज्ञानित्वाभिमाने शिष्यत्वविरोधिन्यपनीते मुनिं प्रति तस्य शिष्यत्वेनोपसतिं दर्शयति —
यस्मादिति ।
नमस्कारोक्तेरुद्देश्यमुपन्यस्यति —
अनु मेति ।
अभीष्टमनुशासनं कर्तुं प्राचीनज्ञानस्य फलाभासहेतुत्वोक्तिद्वारा परमफलहेतुरात्मज्ञानमेवेति विवक्षित्वा तत्र राज्ञो जिज्ञासामापादयति —
स हेत्यादिना ।
यथोक्तगुणसंपन्नश्चेदहं तर्हि कृतार्थत्वान्न मे कर्तव्यमस्तीत्याशङ्क्याऽऽह —
एवमिति ।
याज्ञवल्क्यो राज्ञो जिज्ञासामापाद्य पृच्छति —
इत इति ।
परवस्तुविषये गतेरयोगात्प्रश्नविषयं विवक्षितं संक्षिपति —
किं वस्त्विति ।
राज्ञा स्वकीयमज्ञत्वमुपेत्य शिष्यत्वे स्वीकृते प्रत्युक्तिमवतारयति —
अथेति ।
तत्रापेक्षितमथशब्दसूचितं पूरयति —
यद्येवमिति ।
आज्ञापनमनुचितमिति शङ्कां वारयति —
यदीति ॥१॥