जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति ॥ १ ॥
जनको ह वैदेहः । यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन् , पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान् — नमः ते तुभ्यम् अस्तु हे याज्ञवल्क्य ; अनु मा शाधि अनुशाधि मामित्यर्थः ; इति - शब्दो वाक्यपरिसमाप्त्यर्थः । स होवाच याज्ञवल्क्यः — यथा वै लोके, हे सम्राट् , महान्तं दीर्घम् अध्वानम् एष्यन् गमिष्यन् , रथं वा स्थलेन गमिष्यन् , नावं वा जलेन गमिष्यन् समाददीत — एवमेव एतानि ब्रह्माणि एताभिरुपनिषद्भिर्युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि ; न केवलमुपनिषत्समाहितः ; एवं वृन्दारकः पूज्यश्च आढ्यश्च ईश्वरः न दरिद्र इत्यर्थः, अधीतवेदः अधीतो वेदो येन स त्वमधीतवेदः, उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्कः ; एवं सर्वविभूतिसम्पन्नोऽपि सन् भयमध्यस्थ एव परमात्मज्ञानेन विना अकृतार्थ एव तावदित्यर्थः — यावत्परं ब्रह्म न वेत्सि ; इतः अस्माद्देहात् विमुच्यमानः एताभिर्नौरथस्थानीयाभिः समाहितः क्व कस्मिन् गमिष्यसि, किं वस्तु प्राप्स्यसीति । नाहं तद्वस्तु, भगवन् पूजावन् , वेद जाने, यत्र गमिष्यामीति । अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति ॥