तात्पर्यमेवमुक्त्वा व्याख्यामक्षराणामारभते —
जनकमित्यादिना ।
संवादं न करोमीति व्रतं चेत्किमिति गच्छतीत्याशङ्कते —
गमनेति ।
उत्तरमाह —
योगेति ।
अथ हेत्याद्यवतारयति —
नेत्यादिना ।
अत्रोत्तरत्वेनेति शेषः । पूर्वत्रेति कर्मकाण्डोक्तिः ।
नन्वग्निहोत्रप्रकरणे कामप्रश्नो वरो दत्तश्चेत्किमिति तत्रैवाऽऽत्मयाथात्म्यप्रश्नप्रतिवचने नासूचिषातां तत्राऽऽह —
तत्रैवेति ।
कर्मनिरपेक्षाया ब्रह्मविद्याया मोक्षहेतुत्वादपि कर्मप्रकरणे तदनुक्तिरित्याह —
विद्यायाश्चेति ।
सर्वापेक्षाधिकरणन्यायान्न तस्याः स्वातन्त्र्यमित्याशङ्क्याऽऽह —
स्वतन्त्रा हीति ।
सा हि स्वोत्पत्तौ स्वफले वा कर्माण्यपेक्षते । नाऽऽद्योऽभ्युपगमात् । न द्वितीयः । अत एव चाग्नीन्धनाद्यनपेक्षेति न्यायाविरोधादित्यभिप्रेयाऽऽह —
सहकारीति।
इत्यस्माच्च हेतोस्तत्रैवानुक्तिरिति संबन्धः ॥१॥