कथं पुनरत्र पृच्छ्यते ज्योतिरन्तरमित्याशङ्क्य प्रष्टुरभिप्रायमाह —
एतदुक्तं भवतीति ।
यो व्यवहारः सोऽतिरिक्तज्योतिर्निमित्तो यथाऽऽदित्यादिनिमित्तो जाग्रद्व्यवहार इति व्याप्तिमुक्तां निगमयति —
एवं तावदिति ।
व्याप्तिज्ञानकार्यमनुमानमाह —
तस्मादिति ।
तादृगवस्थायां सर्वज्योतिःप्रत्यस्तमयदशायामिति यावत् । विमतो व्यवहारोऽतिरिक्तज्योतिरधीनो व्यवहारत्वात्संप्रतिपन्नवदित्यधस्तादेवानुमानमावेदितमिति भावः ।
हेतोराश्रयासिद्धिमाशङ्क्य परिहरति —
दृश्यते चेति।
आदिशब्देन देशान्तरादौ कर्मकरणं गृह्यते ।
आश्रयैकदेशासिद्धिमाशङ्क्याऽऽह —
सुषुप्ताच्चेति।
ध्यानदशायामिष्टदेवतादर्शनं चकारार्थः ।
अनुमानफलं निगमयति —
तस्मादिति ।
यथोक्तानुमानाज्ज्योतिः सिद्धं चेत्किं प्रश्नेनेत्याशङ्क्याऽऽह —
किं पुनरिति ।
सर्वज्योतिरुपशमे दृश्यमानस्य व्यवहारस्य कारणतयाऽनुमानतो ज्योतिर्मात्रसिद्धावपि तद्विशेषबुभुत्सायां प्रश्नोपपत्तिरित्यर्थः ।
प्रतिवचनमवतार्य व्याकरोति —
उच्यत इत्यादिना ।
अवभासकत्वे दृष्टान्तमाह —
आदित्यादिति ।
तत्र व्यतिरिक्तत्वं साधयति —
कार्येति ।
अनुग्राहकत्वादादित्यादिवदिति शेषः ।
तच्चान्तःस्थं पारिशेष्यादित्युक्तमुपपादयति —
यच्चेति ।
उपरतेष्वात्मज्योतिरिति शेषः ।
तदेव तर्हि मा भूदिति चेन्नेत्याह —
कार्यं त्विति।
स्वप्नादौ दृश्यमानं व्यवहारं हेतूकृत्य फलितमाह —
यस्मादित्यादिना ।
विमतमन्तःस्थमतीन्द्रियत्वादादित्यवदिति व्यतिरेकीत्यर्थः ।
व्यतिरेकान्तरमाह —
किञ्चेति ।