नन्वात्मज्योतिः संघाताद्व्यतिरिक्तमन्तःस्थं चेति साधितं तथा च कथं कतम आत्मेति पृच्छ्यते तत्राऽऽह —
यद्यपीति ।
अनुग्राह्येण देहादिना समानजातीयस्याऽऽदित्यादेरनुग्राहकत्वदर्शनान्निमित्तादनुग्राहकत्वाविशेषादात्मज्योतिरपि समानजातीयं देहादिनेति भ्रान्तिर्भवति तयेति यावत् । अविवेकिनो निष्कृष्टदृष्ट्यभावादित्यर्थः ।
व्यतिरेकसाधकस्य न्यायस्य दर्शितत्वात्कुतो भ्रान्तिरित्याशङ्क्याऽऽह —
न्यायेति ।
भान्तिनिमित्ताविवेककृतं प्रश्नमुक्त्वा प्रकारान्तरेण प्रश्नमुत्थापयति —
अथवेति ।
प्रश्नाक्षराणि व्याचष्टे —
कतमोऽसाविति ।
ननु ज्योतिर्निमित्तो व्यवहारो मयोक्तो न त्वात्मेत्याशङ्क्याऽऽह —
येनेति ।
आत्मनैवायं ज्योतिषेत्युक्तत्वादासनादिनिमित्तं ज्योतिरात्मेत्यर्थः ।
प्रकारान्तरेण प्रश्नं व्याकरोति —
अथवेति ।
सप्तम्यर्थं कथयति —
सर्व इति ।
योऽयं त्वयाऽभिप्रेतो विज्ञानमयः स प्राणेषु मध्ये कतमः स्यात्तेऽपि हि विज्ञानमया इव भान्तीति योजना ।
उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —
यथेति ।
व्याख्यानयोरवान्तरविभागमाह —
पूर्वस्मिन्नित्यादिना ।
हृदीत्यादि प्रतिवचनमिति शेषः ।
पक्षान्तरमाह —
अथवेति ।
सर्वस्य प्रश्नत्वे वाक्यं योजयति —
विज्ञानेति ।
स समानः सन्नित्यादिना प्रतिवचनमिति शेषः ।