बुद्ध्यवभासकं ज्योतिरात्मेत्युक्तं श्रुत्वा शाक्यः शङ्कते —
नन्विति ।
प्रमाणादतिरिक्तत्मोपलब्धिरित्याशङ्क्य प्रत्यक्षमनुमानं चेति प्रमाणद्वैविध्यनियममभिप्रेत्य ताभ्यामतिरिक्तात्मानुपलम्भान्नासावस्तीत्याह —
धीव्यतिरेकेणेति ।
तत्र दृष्टान्तमाह —
यथेति ।
घटादिरालोकश्चेत्युभयोर्मिथः संसृष्टयोर्विवेकेनानुपलम्भवदवभास्यावभासकयोर्बुद्ध्यात्मनोर्भेदेऽपि पृथगनुपलम्भादैक्यमवभासते वस्तुतस्तु तयोरन्यत्वमेवेति शङ्कामनुवदति —
यस्त्विति ।
वैषम्यप्रदर्शनेनोत्तरमाह —
तत्रेति ।
दृष्टान्तः सप्तम्यर्थः । घटादेरन्यत्वेनेति संबन्धः ।
ज्योतिरन्तरं नास्ति चेत्कुतो ग्राह्यग्राहकसंवित्तिरित्याशङ्क्याऽऽह —
धीरेवेति ।
बाह्यार्थवादिनोः सौत्रान्तिकवैभाषिकयोरभिप्रायमुपसंहरति —
तस्मान्नेति ।
इदानीं विज्ञानवादी बाह्यार्थवादिभ्यामभ्युपगतं दृष्टान्तमनुवदति —
यदपीति ।
बाह्यार्थवादप्रक्रिया न सुगताभिप्रेतेति दूषयति —
तत्रेति ।
उभयत्र दृष्टान्तस्वरूपं सप्तम्यर्थः ननु घटादेरवभास्यादालोकोऽवभासको भिन्नो लक्ष्यते नेत्याह —
परमार्थतस्त्विति ।
तस्य स्थायित्वं व्यावर्तयति —
अन्योऽन्य इति ।
प्रतीतं विषयप्राधान्यं व्यावर्तयन्नुक्तमेव व्यनक्ति —
विज्ञानमात्रमिति।
विज्ञानवादे यथोक्तदृष्टान्तराहित्यं फलतीत्याह —
यदेति ।
शिष्यबुद्ध्यनुसारेण त्रिविधं बुद्धाभिप्रायमुपसंहरति —
एवमित्यादिना।
परिकल्प्येत्यन्तेन बाह्यार्थवादमुपसंहृत्य तस्यैवेत्यादिना विज्ञानवादमुपसंजहार ।
तत्र विज्ञानवादोपसंहारं विवृणोति —
तद्बाह्येति ।
शून्यवादिमतमाह —
तस्यापीति।
तदेव स्फुटयति —
तदपीति ।