क्षणभङ्गवादोक्तमनूद्य प्रत्यभिज्ञाविरोधेन निराकरोति —
यत्तूक्तमित्यादिना ।
स्वपक्षेऽपि प्रत्यभिज्ञोपपत्तिं शाक्यः शङ्कते —
सादृश्यादिति ।
दृष्टान्तं विघटयन्नुत्तरमाह —
न तत्रापीति ।
तथाऽपि कथं तत्र प्रत्यभिज्ञेत्याशङ्क्याऽऽह —
जातीति ।
तन्निमित्ता तेषु प्रत्यभिज्ञेति शेषः ।
तदेव प्रपञ्चयति —
कृत्तेष्विति ।
अभ्रान्त इति च्छेदः ।
किमिति जातिनिमित्तैषा धीर्व्यक्तिनिमित्ता किं न स्यादत आह —
न हीति ।
ननु सादृश्यवशाद्व्यक्तिमेव विषयीकृत्य प्रत्यभिज्ञानं केशादिषु किं न स्यात्तत्राऽऽह —
कस्यचिदिति ।
अभ्रान्तस्येति यावत् ।
दार्ष्टान्तिके वैषम्यमाह —
घटादिष्विति ।
वैषम्यमुपसंहरति —
तस्मादिति ।
यत्सत्तत्क्षणिकं यथा प्रदीपादि सन्तश्चामी भावा इत्यनुमानविरोधाद्भ्रान्तं प्रत्यभिज्ञानमित्याशङ्क्याऽऽह —
प्रत्यक्षेण इति ।
अनुष्णतानुमानवत्प्रत्यक्षविरोधे क्षणिकत्वानुमाणं नोदेत्यबाधितविषयत्वस्याप्यनुमित्यङ्गत्वादिति भावः ।
इतश्च प्रत्यभिज्ञानं सादृश्यनिबन्धनो भ्रमो न भवतीत्याह —
सादृश्येति ।
तदनुपपत्तौ हेतुमाह —
ज्ञानस्येति ।
तस्य क्षणिकत्वेऽपि किमिति सादृश्यप्रत्ययो न सिध्यतीत्याशङ्क्याऽऽह —
एकस्येति ।
अस्तु तर्हि वस्तुद्वयदर्शित्वमेकस्येति चेन्नेत्याह —
न त्विति ।
उक्तमेवार्थं प्रपञ्चयति —
तेनेत्यादिना ।
भवतु किं तावतेति तत्राऽऽह —
तेनेति दृष्टमिति ।
अवतिष्ठेत यदीति शेषः ।
क्षणिकत्वहानिपरिहारं शङ्कित्वा परिहरति —
अथेत्यादिना ।
तत्र हेतुमाह —
अनेकेति ।
परपक्षे दोषान्तरमाह —
व्यपदेशेति ।
तदेव विवृणोति —
इदमिति ।
व्यपदेशक्षणेऽनवस्थानासिद्धिं शङ्कित्वा दूषयति —
अथेत्यादिना ।
अन्यो दृष्टाऽन्यश्च व्यपदेष्टेत्याशङ्क्य परिहरति —
अथेत्यादिना ।
शास्त्रप्रणयनादीत्यादिशब्देन शास्त्रीयं साध्यसाधनादि गृह्यते ।
क्षणिकत्वपक्षे दूषणान्तरमाह —
अकृतेति ।
व्यपदेशानुपपत्तिमुक्तां समादधानः शङ्कते —
दृष्टेति ।
सादृश्यप्रत्ययश्च शृङ्खलास्थानीयेन प्रत्ययेनैव सेत्स्यतीत्याह —
तेनेदमिति ।
अपसिद्धान्तप्रसक्त्या प्रत्याचष्टे —
नेत्यादिना ।
तावेवोभौ यौ प्रत्ययौ विशेषौ तदवगाही चेन्मध्यवतीं शृङ्खलावयवस्थानीयः प्रत्यय इति यावत् ।
क्षणानां मिथः संबन्धस्तर्हि मा भूदिति चेत्तत्राऽऽह —
ममेति।
व्यपदेशसादृश्यप्रत्ययानुपपत्तिस्तु स्थितैवेति चकारार्थः ।