आत्मनः स्थानत्रयसंचारादसिद्धोऽसंगत्वहेतुरिति शङ्कते —
तत्रेति ।
प्रतिज्ञाहेत्वोर्हेतुनिर्धारणं सप्तम्यर्थः । सप्रयोजकाद्देहद्वयाद्वैलक्षण्यं तु दूरनिरस्तमित्येवशब्दार्थः ।
एवं चोदिते हेतुसमर्थनार्थं महामत्स्यवाक्यमिति संगतिमभिप्रेत्य संगत्यन्तरमाह —
पूर्वमपीति ।
यथाप्रदर्शितोऽर्थोऽसंगत्वं कार्यकरणविनिर्मुक्तत्वं च अहार्यत्वमप्रकम्प्यत्वम् ।
स्वच्छन्दचारित्वं प्रकटयति —
संचरन्नपीति ।
किं पुनर्दृष्टान्तेन दार्ष्टान्तिके लभ्यते तदाह —
दृष्टान्तेति ॥ १८ ॥