वृत्तमनूद्य प्रश्नपूर्वकमुत्तरवाक्यमवतार्य व्याचष्टे —
शकटवदित्यादिना ।
विहिता विद्या ध्यानात्मिका । प्रतिषिद्धा नग्नस्त्रीदर्शनादिरूपा । अविहिता घटादिविषया । अप्रतिषिद्धा पथि पतिततृणादिविषया । विहितं कर्म यागादि । प्रतिषिद्धं ब्रह्महननादि । अविहितं गमनादि । अप्रतिषिद्धं नेत्रपक्ष्मविक्षेपादि ।
विद्याकर्मणोरुपभोगसाधनत्वप्रसिद्धेरन्वारम्भेऽपि किमित्यन्वारभते वासनेत्याशङ्क्याऽऽह —
सा चेति ।
अपूर्वकर्मारम्भादावङ्गं पूर्ववासनेत्यत्र हेतुमाह —
न हीति ।
उक्तमेव हेतुमुपपादयति —
न हीत्यादिना ।
इन्द्रियाणां विषयेषु कौशलमनुष्ठाने प्रयोजकं तच्च फलोपभोगे हेतुः । न चान्तरेणाभ्यासमिन्द्रियाणां विषयेषु कौशलं संभवति तस्मादनुष्ठानाद्यभ्यासाधीनमित्यर्थः ।
तथाऽपि कथं पूर्ववासना कर्मानुष्ठानादावङ्गमित्याशङ्क्याऽऽह —
पूर्वानुभवेति ।
तत्र लोकानुभवं प्रमाणयति —
दृश्यते चेति ।
चित्रकर्मादीत्यादिशब्देन प्रासादनिर्माणादि गृह्यते ।
पूर्ववासनोद्भवकृतं कार्यमुक्त्वा तदभावकृतं कार्यमाह —
कासुचिदिति ।
रज्जुनिर्माणादिष्विति यावत् ।
तत्रैवोदाहरणसौलभ्यमाह —
तथेति ।
तत्र हेत्वन्तरमाशङ्क्य परिहरति —
तच्चेति ।
कर्मानुष्ठानादौ पूर्वप्रज्ञाया हेतुत्वमुपसंहरति —
तेनेति ।
समन्वारम्भवचनार्थं निगमयति —
तस्मादिति ।
तस्यैव तात्पर्यार्थमाह —
यस्मादिति ॥ २ ॥