उपसंहारस्य स्वरूपमाह —
तत्रेति ।
सप्तम्यर्थं विवृणोति —
आरभ्यमाण इति ।
आरब्धे देहान्तरे सूक्ष्मदेहस्याभिव्यक्तिमाह —
तत्र चेति ।
कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।
ननु लिङ्गदेहबलादेवार्थक्रियासिद्धौ कृतं स्थूलशरीरेणेत्याशङ्क्य तद्व्यतिरेकेणेतरस्यार्थक्रियाकारित्वं नास्तीति मत्वाऽऽह —
बाह्यं चेति ।
आरब्धे देहद्वये करणेषु देवतानामनुग्राहकत्वेनावस्थानं दर्शयति —
तत्रेति ।
स्थूलो देहः सप्तम्यर्थः । करणव्यूहस्तेषामभिव्यक्तिः ॥ ३ ॥