तृणजलायुकावाक्यमवतारयितुं वृत्तमनूद्य वादिविवादान्दर्शयन्नादौ दिगम्बरमतमाह —
एवमित्यादिना ।
देवतावादिमतमाह —
अथवेति ।
देवता येन शरीरेण विशिष्टं जीवं परलोकं नयति तदातिवाहिकं शरीरान्तरं तेनेति यावत् ।
साङ्ख्यादिमतमाह —
किञ्चेति ।
सिद्धान्तं सूचयति —
आहोस्विदिति ।
वैशेषिकादिपक्षमाह —
किञ्चेति ।
न्यूनत्वनिवृत्त्यर्थमाह —
किंवा कल्पान्तरमिति ।
तत्र सिद्धान्तस्य प्रामाणिकत्वेनोपादेयत्वं वदन्कल्पनान्तराणामप्रामाणिकत्वेन त्याज्यत्वमभिप्रेत्याऽऽह —
उच्यत इति ।
तेषां सर्वात्मकत्वे हेत्वन्तरमाह —
सर्वात्मकेति ।
कथं तर्हि करणानां परिच्छिन्नत्वधीरित्याशङ्क्याऽऽह —
तेषामिति ।
आधिदैविकेन रूपेणापरिच्छिन्नानामपि करणानामाध्यात्मिकादिरूपेण परिच्छिन्नतेति स्थिते फलितमाह —
अत इति ।
तद्वशादुदाहृतश्रुतिवशादित्येतत् । स्वभावतो देवतास्वरूपानुसारेणेति यावत् । कर्मज्ञानवासनानुरूपेणेत्यत्र भोक्तुरिति शेषः । उभयत्र संबन्धार्थं प्राणानामिति द्विरुक्तम् ।
तेषां वृत्तिसंकोचादौ प्रमाणमाह —
तथा चेति ।
परिच्छिन्नापरिच्छिन्नप्राणोपासने गुणदोषसंकीर्तनमपि प्राणसंकोचविकासयोः सूचकमित्याह —
तथा चेदमिति ।
आधिदैविकेन रूपेण सर्वगतानामपि करणानामाध्यात्मिकाधिभौतिकरूपेण परिच्छिन्नत्वात्तत्परिवृतस्य गमनं सिद्ध्यतीति सिद्धान्तो दर्शितः ।
इदानीं तृणजलायुकादृष्टान्ताद्देहान्तरं गृहीत्वा पूर्वदेहं मुञ्चत्यात्मेति स्थूलदेहविशिष्टसैव परलोकगमनमिति पौराणिकप्रक्रियां प्रत्याख्यातुं दृष्टान्तवाक्यस्य तात्पर्यमाह —
तत्रेत्यादिना ।
देहनिर्गमनात्प्रागवस्था सप्तम्यर्थः । तदैव यथोक्ता वासना हृदयस्था विद्याकर्मनिमित्तं भाविदेहं स्पृशति जीवोऽपि तत्राभिमानं करोति पुनश्च पूर्वदेहं त्यजति यथा स्वप्ने देवोऽहमित्यभिमन्यमानो देहान्तरस्थ एव भवति तथोत्क्रान्तावपि । तस्मान्न पूर्वदेहविशिष्टस्यैव परलोकगमनमित्यर्थः । स्वात्मोपसंहारो देहे पूर्वस्मिन्नात्माभिमानत्यागः । प्रसारितया वासनया शरीरान्तरं गृहीत्वेति संबन्धः ।