प्रस्तुतज्ञानमार्गस्तुत्यर्थं मार्गान्तरं निन्दति —
अन्धमित्यादिना ।
विद्यायामिति प्रतीकमादाय व्याकरोति —
अविद्येति ।
कथं पुनस्त्रय्यामभिरतानामधःपतनमित्याशङ्क्याऽऽह —
विधीति ॥ १० ॥