उक्तात्मज्ञानस्तुत्यर्थमेव तन्निष्ठस्य कायक्लेशराहित्यं दर्शयति —
आत्मानमित्यादिना ।
विज्ञानात्मनो वैलक्षण्यार्थं विशिनष्टि —
सर्वेति ।
ताटस्थ्यं व्यावर्तयति —
हृत्स्थमिति ।
बुद्धिसंबन्धप्राप्तं संसारित्वं वारयति —
अशनायादीति ।
प्रश्नपूर्वकं ज्ञानप्रकारं प्रकटयति —
कथमित्यादिना ।
सर्वभूतसंबन्धप्रयुक्तं दोषं वारयितुं विशिनष्टि —
नित्येति ।
इति विजानीयादिति संबन्धः । प्रयोजनाय शरीरमनुसंज्वरेदिति संबन्धः ।
किमिच्छन्नित्याक्षेपं समर्थयते —
न हीति ।
कस्य वा कामायेत्याक्षेपमुपपादयति —
न चेति ।
आक्षेपद्वयं निगमयति —
अत इति ।
तदेव स्पष्टयति —
शरीरेति ।
विदुषस्तापाभावं व्यतिरेकमुखेन विशदयति —
अनात्मेति ।
वस्त्वन्तरेप्सोस्तापसंभव इति शेषः । स चेत्यध्याहृत्य ममेदमित्यादि योज्यम् । इत्येतदाह किमिच्छन्नित्याद्या श्रुतिरिति शेषः ॥ १२ ॥