अथेश्वरस्यापि कालान्यत्वे सति वस्तुत्वाद्घटवत्कालावच्छिन्नत्वान्न कालत्रयं प्रति युक्तमीश्वरत्वमत आह —
किञ्चेति ।
यस्मादीशानादर्वाक्संवत्सरो वर्तते तमुपासते देवा इति संबन्धः ।
ननु कथं संवत्सरोऽर्वागित्युच्यते कालस्य कालान्तराभावेन पूर्वकालसंबन्धाभावादत आह —
यस्मादिति ।
अन्वयस्तु पूर्ववत् ।
आत्मज्ज्योतिषो गुणमायौष्ट्वलक्षणं स्पष्टयन्नुपासकस्य फलमाह —
सर्वस्येति ।
यथोक्तोपासने देवानामेवाधिकारो विशेषवचनादित्याशङ्क्याऽऽह —
तस्मादिति ॥ १६ ॥