प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरित्यभिप्रेत्याऽऽह —
किञ्चेति ।
कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह —
ब्रह्मशक्तीति ।
विमतानि केनचिदधिष्ठितानि प्रवर्तन्ते करणत्वाद्वास्यादिवदिति चक्षुरादिव्यापारेणानुमितास्तित्वं प्रत्यगात्मनं ये विदुरिति योजना ।
विदिक्रियाविषयत्वं व्यावर्तयति —
नेति ।
प्रत्यगात्मविदां कथं ब्रह्मवित्त्वमित्याशङ्क्याऽऽह —
तदिति ॥ १८ ॥