भूतप्रपञ्चप्रस्थानमुत्थाप्य प्रत्याचष्टे —
ये पुनरित्यादिना ।
तत्र हेतुमाह —
न हीति ।
भवतूपनिषन्मात्रग्रहणमित्याशङ्क्य वेदो वाऽनूच्यते गुरूच्चारणानन्तरं पठ्यत इति व्युत्पत्तेर्वेदानुवचनशब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —
वेदेति ।
दोषसाम्यमाशङ्कते —
नन्विति ।
सिद्धान्तेऽप्युपनिषदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदैकदेशविषयत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे” ॥
इति न्यायविरोध इत्यर्थः ।
नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —
नेत्यादिना ।
वेदैकदेशपरिग्रहपरित्यागात्मकविरोधाभावं साधयति —
यदेति ।
तर्हि व्याख्यानान्तरमुपेक्षितमित्याशङ्क्य तदपि वाक्यशेषवशादपेक्षितमेवेत्याह —
यज्ञादीति।
संग्रहवाक्यं विवृणोति —
यज्ञादीनि कर्माणीति ।
तर्हि प्रथमव्याख्याने कथं वाक्यशेषोपपत्तिरित्याशङ्क्याऽऽह —
कर्म हीति ।