सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —
यदीति ।
परिहरति —
अत्रेति ।
तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।
कर्मभिरसंबन्धमात्मलोकस्य साधयति —
यमात्मानमिति ।
तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —
तस्मादिति ।
आत्मनो निष्प्रपञ्चत्वेऽपि कथं तदर्थिनां पारिव्राज्यसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
निर्विशेषस्तत्र तत्र वाक्ये दर्शितस्वरूपोऽयमात्मेत्येतदागमोपपत्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मान्निर्धारितं तस्मादस्मिन्नात्मन्यापाततो ज्ञाते कर्मानुष्ठानप्रयत्नासिद्धिरिति योजना ।
उक्तात्मविषयविवेकविज्ञानवतो न कर्मानुष्ठानमित्यत्र दृष्टान्तमाह —
न हीति ।
ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —
कृत्स्नस्येति ।
तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतूहलवशादनुष्ठास्यतीत्याशङ्क्याऽऽह —
न चेति ।
तत्र लौकिकं न्यायं दर्शयति —
अङ्के चेदिति ।
पुरोदेशे मधु लभेत चेदिति यावत् ।
ज्ञानफले कर्मफलान्तर्भावे मानमाह —
सर्वमिति ।
अखिलं समग्राङ्गोपेतमित्यर्थः ।
तत्रैव श्रुतिं संवादयति —
इहापीति ।
निषेधवाक्यतात्पर्यमुपसंहरति —
अत इति ।