बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥
सः ह उवाच — प्रियैव पूर्वं खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धारितवती असि ; अतः तुष्टोऽहम् ; हन्त इच्छसि चेत् अमृतत्वसाधनं ज्ञातुम् , हे भवति, ते तुभ्यं तत् अमृत्वसाधनं व्याख्यास्यामि ॥

गुरुप्रासादाधीना विद्यावाप्तिरिति द्योतनार्थमाह —

स होवाचेति ।

ज्ञानेच्छादुर्लभताद्योतनाय चेदित्युक्तम् ॥ ५ ॥