स यथा सैन्धवघन इत्यादिवाक्यतात्पर्यमाह —
सर्वकार्येति ।
एतेभ्यो भूतेभ्य इत्यादेरर्थमाह —
पूर्वं त्विति ।
ज्ञानोदयात्प्रागवस्थायामित्यर्थः । लब्धविशेषविज्ञानः सन्व्यवहरतीति शेषः । प्रविलापितं तस्येत्यध्याहारः ॥ १३ ॥