सति ज्ञाने कर्मत्यागो निषिध्यते सत्यां वा जिज्ञासायामिति विकल्प्याऽऽद्यं दूषयति सिद्धान्ती —
नाऽऽत्मज्ञानस्येति ।
विद्वत्संन्यासस्यावश्यम्भावित्वान्न कर्मावसान एव वेदार्थ इति संगृहीतं वस्तु विवृणोति —
यत्तावदिति ।
विद्यासूत्रादारभ्य निषेधवाक्यान्तेन ग्रन्थेन यदात्मज्ञानमुपसंहृतं तत्तावन्मुक्तिसाधनमिति भवताऽपि यस्मादभ्युपगतं पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणादिति न्यायात्तस्माज्ज्ञाने सति कर्मानुष्ठानं निरवकाशमित्यर्थः ।
अथाऽऽत्मज्ञानं कर्मसहितममृतत्वसाधनमिष्यते न केवलं तथा च ज्ञानोत्तरकालमपि न कर्मत्यागसिद्धिरिति शङ्कते —
तत्रेति ।
आत्मज्ञानस्यामृतत्वसाधनत्वे सत्यपीति यावत् ।
कर्मनिरपेक्षत्वं चेदात्मज्ञानस्य भवान्न सहते किमिति तर्हि ज्ञानमेवोपगतमिति सिद्धान्ती पृच्छति —
तत्रेति।
तस्य कर्मानपेक्षत्वानङ्गीकारे सतीत्यर्थः ।
तत्र पूर्ववादी शास्त्रीयत्वादात्मज्ञानममृतत्वसाधनमभ्युपगतमिति शङ्कते —
शृण्विति ।
ज्ञापयति वेद इति शेषः ।
शास्त्रानुसारेणाऽऽत्मज्ञानाङ्गीकारे कर्मनिरपेक्षमेवाऽऽत्मज्ञानं मोक्षसाधनं सेत्स्यतीति परिहरति —
एवं तर्हीति ।
उभयत्र ज्ञाने कर्मणि चेत्यर्थः । यद्वा ज्ञानस्यामृतत्वसाधनत्वे तस्य कर्मनिरपेक्षत्वे चेत्यर्थः । तुल्यप्रामाण्यात्प्रामाण्यस्य तुल्यत्वाद्वेदस्येति शेषः ।
यथाशास्त्रं ज्ञानाभ्युपगमेऽपि कथं तत्केवलं कैवल्यकारणमिति पृच्छति —
यद्येवमिति ।
शास्त्रानुसारेण ज्ञानमभ्युपगच्छन्तं प्रत्याह —
सर्वकर्मेति ।
आत्मज्ञानस्य तदुपमर्दकत्वं दर्शयितुं कर्महेतुं तावद्दर्शयति —
दाराग्नीति ।
अग्निहोत्रादीनां संप्रदानकारकसाध्यत्वं व्यतिरेकद्वारा साधयति —
अन्येति ।
तथाऽपि कथमात्मज्ञानस्य कर्महेतूपमर्दकत्वमित्याशङ्क्याऽऽह —
यया हीति ।
इहेति विद्यादशोक्तिः ।
विद्यायाः श्रुतिजन्यत्वेन बलवत्त्वं दर्शयति —
अन्योऽसावित्यादिना ।
ननु शुचौ देशे दिवसादौ काले शास्त्राचार्यादिवशादुत्पन्नं ज्ञानं पुमर्थसाधनम् ‘शुचौ देशे प्रतिष्ठाप्य’ (भ. गी. ६ । ११) इत्यादिस्मृतेस्तथाच कथं तस्य भेदबुद्ध्युपमर्दकत्वमत आह —
न चेति ।
यत्रैकाग्रता तत्राविशेषादिति न्यायाज्ज्ञानसाधनस्य समाधेरपि न देशाद्यपेक्षा दूरतस्तु कूटस्थवस्तुतन्त्रस्य ज्ञानस्येति भावः ।
विमतं देशाद्यपेक्षं शास्त्रार्थत्वाद्धर्मवदित्याशङ्क्य पुरुषतन्त्रत्वमुपाधिरित्याह —
क्रियायास्त्विति ।
साधनव्याप्तिं दूषयति —
ज्ञानं त्विति ।
विमतं न देशाद्यपेक्षं प्रमाणत्वादुष्णाग्निज्ञानवदिति प्रत्यनुमानमाह —
यथेति ।
आत्मज्ञानस्य सर्वकर्महेतूपमर्दकत्वे दोषमाशङ्कते —
नन्विति ।
इष्टापत्तिमाशङ्क्याऽऽह —
न चेति ।
कर्मकाण्डेन काण्डान्तरस्यापि निरोधसंभवादित्यर्थः ।
साक्षदात्मज्ञानं कर्मविधिनिरोध्यर्थाद्वेति विकल्प्याऽऽद्यं दूषयति —
नेत्यादिना ।
तदेव स्फुटयति —
न हि विध्यन्तरेति ।
द्वितीयं शङ्कते —
तथाऽऽपीति ।
यथा न कामी स्यादिति निषेधात्कस्यचित्कामप्रवृत्तिर्न भवतीत्येतावता न सर्वान्प्रति काम्यविधिर्निरुध्यते तथा कस्यचिदात्मज्ञानात्कर्मविधिनिरोधेऽपि न सर्वान्प्रत्यसौ निरुद्धो भविष्यतीति परिहरति —
न कामेति ।
दृष्टान्तमेव स्पष्टयति —
यथेत्यादिना ।
प्रतिषेधशास्त्रार्थानभिज्ञं प्रति तदुपपत्तेरिति भावः ।
अभिप्रायमविद्वानाशङ्कते —
कामप्रतिषेधविधिनेति ।
अनर्थकत्वज्ञानात्कामस्येति शेषः । प्रवृत्त्यनुपपत्तेः काम्येषु कर्मस्विति द्रष्टव्यम् ।
निरुद्धः स्यात्काम्यविधिरित्यध्याहर्तव्यम्। गूढाभिसन्धिं सिद्धान्ती ब्रूते —
भवत्विति ।
पुनरभिप्रायमप्रतिपद्यमानश्चोदयति —
यथेति ।
एवमिति ज्ञाने न कर्मविधिनिरोधे सतीति यावत् । तत्प्रामाण्यानुपपत्तिरिति शेषः ।
तदेव चोद्यं विशदयति —
अननुष्ठेयत्व इति ।
तेषामनुष्ठेयानामग्निहोत्रादीनां कर्मणां ये विधयस्तेषामिति यावत् ।
सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह —
नेत्यादिना ।
उपपत्तिमेवोपदर्शयति —
स्वाभाविकस्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
यथेति ।
अज्ञानावस्थायामेव कर्मविधिप्रवृत्तिरित्यत्रानिष्टमाशङ्कते —
तथा सतीति ।
कर्मविधिरपि पुरुषाभिप्रायवशात्पुरुषार्थोपयोगित्वसिद्धेर्नानिष्टापत्तिरित्युत्तरमाह —
नार्थेति ।
अर्थस्य पुरुषाभिप्रायतन्त्रत्वे मोक्षस्यापि वास्तवं पुरुषार्थत्वं न स्यादित्याशङ्क्याऽऽह —
मोक्षमिति ।
अर्थानर्थयोरभिप्रायतन्त्रत्वं साधयति —
पुरुषेति ।
मरणं महाप्रस्थानमित्यादि काम्यं कृत्वा जीवदवस्थायामेव महाभारतादाविष्टिनिधानं दृष्टमतोऽर्थानर्थावभिप्रायतन्त्रकावेवेत्यर्थः ।
कर्मविधीनामात्मज्ञानात्प्राचीनत्वं प्रतिपादितमुपसंहरति —
तस्मादिति ।
तथाऽपि प्रकृते किमायातं तदाह —
तस्मान्नेति ।
तत्र प्रमाणमाह —
इत्यत इति ।
अतःशब्दार्थं स्फुटयति —
कर्मेति ।
ज्ञानस्य कर्मविरोधत्वे तन्निरपेक्षत्वे च सिद्धे फलितमाह —
अत इति ।
आत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमादित्यादेरुक्तन्यायादात्मसाक्षात्कारस्य केवलस्य कैवल्यकारणत्वसिद्धेः सति तस्मिञ्जीवन्मुक्तस्य कर्मानुष्ठानानवकाशात्तदुद्देशेन प्रवृत्तस्याधीतवेदस्य विदितपदपदार्थस्य परोक्षज्ञानवतस्तन्मात्रेण प्रमाणापेक्षामन्तरेण सिद्धं सर्वकर्मत्यागलक्षणं पारिव्राज्यमेष एव विद्वत्सन्यासो न त्वपरोक्षज्ञानवतः प्रारब्धफलप्राप्तिमन्तरेणानुष्ठेयं किञ्चिदस्तीति भावः ।
विध्यविषयत्वाज्जातसाक्षात्कारस्य कथं पारिव्राज्यं तत्राऽऽह —
वचनमिति ।
उक्तन्यायः शान्तादिवाक्यसूचितः । विधिं विनाऽपि फलभूतं पारिव्राज्यमित्यर्थः ।
सत्यां जिज्ञासायां कर्मत्यागो न शक्यते निषेद्धुमिति वदन्विविदिषासंन्यासं साधयति —
तथा चेत्यादिना ।
एतत्पारिव्राज्यमिति संबन्धः । विदुषामात्मसाक्षात्कारार्थिनां तत्परोक्षनिश्चयवतामिति यावत् । आत्मलोकस्यावबोधोऽपि व्युत्थानहेतुः परोक्षनिश्चय एव । सतीतरस्मिन्फलावस्थस्य व्युथानाद्यनुष्ठानायोगात्तदनन्तरेण तत्प्राप्त्यभावाच्च ।
उक्तं हि शमादिवदुपरतरेपि तत्त्वसाक्षात्कारे नियतं साधनत्वं तदाह —
तथा चेति ।
विविदिषुर्नामाधीतवेदो विचारप्रयोजकापातिकज्ञानवान्मुमुक्षुर्मोक्षसाधनं तत्त्वसाक्षात्कारमपेक्षमाणस्तस्मिन्परोक्षनिश्चयेनापि शून्यो विवक्षितस्तस्य कथं पारिवाज्यमत आह —
एतमेवाऽऽत्मानमिति ।
इतश्च विविदिषासंन्यासोऽस्तीत्याह —
कर्मणां चेति ।
तथा चाविद्याविरुद्धां विद्यामिच्छन्नशेषाणि कर्माणि शरीरधारणमात्रकारणेतराणि त्यजेदिति शेषः ।
विविदिषासंन्यासे हेत्वन्तरमाह —
अविद्याविषये चेति ।
चतुर्विधफलानि कर्माण्यविद्याविषये परं संभवन्ति न त्वसाध्ये वस्तुनीत्यतो वस्तुजिज्ञासायां त्याज्यानि तानीत्यर्थः —
कथं तर्हि ।
कर्मणामुत्तमफलान्वयस्तत्राऽऽह —
आत्मेति ।
बुद्धिशुद्धिद्वाराज्ञानहेतुत्वात्कर्मणामस्ति प्रणाड्या परमपुरुषार्थान्वय इत्यर्थः ।
’संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति स्मृतेर्विविदिषूणां मुमुक्षूणां कथं पारिव्राज्यस्यैव कर्तव्यत्वमित्याशङ्क्याऽऽह —
अथेति ।
यथा विद्वत्संन्यासस्तथा विविदिषासंन्यासेऽपि यथोक्तनीत्या संभाविते सतीति यावत् । आत्मज्ञानोत्पादनं प्रत्याश्रमधर्माणां बलाबलविचारणा नामान्तरङ्गत्वबहिरङ्गत्वचिन्ता तस्यां सत्यामित्यर्थः । अहिंसास्तेयब्रह्मचर्यादयो यमाः । वैराग्यादीनामित्यादिशब्देन शमादयो गृह्यन्ते । इतरे नियमप्रधाना आश्रमधर्मा बहुना क्लिष्टेन पापेन कर्मणा संकीर्णा हिंसादिप्राचुर्यात्-
’यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन्’ इति स्मृतेस्तस्मात्पूर्वेषामन्तरङ्गत्वमुत्तरेषां बहिरङ्गत्वमित्याशयेनाऽऽह —
हिंसेति ।
कर्मयोगापेक्षया तत्त्यागस्याधिकारिविशेषं प्रति प्रशस्तत्वमुपसंहरति —
इत्यत इति ।
तत्प्रशंसाप्रकारमेवाभिनयति —
त्याग एवेति ।
उक्तानामाश्रमैरनुष्ठेयत्वेनेति शेषः ।
तत्त्यागे हेतुमाह —
वैराग्यमिति ।
मोक्षस्य कर्मपरित्यागस्येत्यर्थः ।
उत्तमपुमार्थार्थिनः संन्यासद्वारा श्रवणादि कर्तव्यमित्यत्र वाक्यान्तरमुदाहरति —
किं ते धनेनेति ।
अथ पित्रादिभिर्गतं पन्थानमन्वेषयामि नाऽऽत्मानमित्याशङ्क्याऽऽह —
पितामहा इति ।
विविदिषासंन्यासे साङ्ख्यादिसंमतिमाह —
एवमिति ।
यथाऽऽहुः संख्याः –
’ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः’ इति ।
’विवेकख्यातिपर्यन्तमज्ञानोच्चितचेष्टितम्’ इति च ।
’अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्’ इति च ।
योगशास्त्रविदश्चाऽऽहुः ‘अभ्यासवैराग्याभ्यां तन्निरोधः’(यो.सू.१.१२) इति । तत्र वैराग्येण विषयस्रोतः परिखिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उत्पाद्यत इति च । ‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्’(यो.सू.१.१५) इति च ।
इतश्च संन्यासो ज्ञानं प्रति प्रत्यासन्न इत्याह —
कामेति ।
संन्यासिनः कामप्रवृत्त्यभावेऽपि कथं संन्यासस्य ज्ञानं प्रति प्रत्यासन्नत्वमित्याशङ्क्याऽऽह —
कामप्रवृत्तेरिति ।
‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) ।
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” (भ. गी. ३ । ३७)
इत्यादीनि शास्त्राणि ।
विविदिशासंन्यासमुपसंहरति —
तस्मादिति ।
यथोक्तस्याधिकारिणो दर्शितया विधया ज्ञानेन विनाऽपि संन्यासस्य प्राप्तत्वाद्ब्रह्मचर्यादेवेत्यादि विधिवाक्यमुपपन्नमिति योजना ।
अथ पारिव्राज्यविधानमनधिकृतविषयमुचितं तथा सति सावकाशत्वान्न त्वधिकृतविषयं यावज्जीवश्रुतिविरोधात्तस्या निरवकाशत्वात्सावकाशनिरवकाशयोश्च निरवकाशस्यैव बलवत्त्वादित्युक्तं शङ्कते —
नन्विति ।
यावज्जीवश्रुतेर्निरवकाशत्वं दूषयति —
नैष दोष इति ।
कथमतिशयेन सावकाशत्वं तत्राऽऽह —
अविद्वदिति ।
जीवनमात्रं निमित्तीकृत्य चोदितं कर्म कथं कामिना कर्तव्यं तत्राऽऽह —
न त्विति ।
प्रत्यवायपरिहारादेरिष्टत्वादित्यर्थः ।
अनुष्ठातृस्वरूपनिरूपणायामपि न जीवनमात्रं निमित्तीकृत्य कर्म कर्तव्यमित्याह —
प्रायेणेति ।
तथाऽपि नित्येषु कर्मसु न कामनिमित्ता प्रवृत्तिस्तत्र काम्यमानफलाभावादित्याशङ्क्याऽऽह —
कामश्चेति ।
प्रत्यवायपरिहारादेरपि कामितत्त्वं युक्तमिति भावः ।
तथाऽपि नित्ये कर्मणि काम्यमानं फलं विध्युद्देशे किञ्च्चिन्न श्रुतमित्याशङ्क्याऽऽह —
अनेकेति ।
कर्मभिरनेकैः साधनैर्यद्दुरितनिबर्हणादि साध्यं तदेवास्याश्रुतमपि विध्युद्देशे साध्यं भवति – ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’(म.स्मृ. २।४) इति स्मृतेस्तद्व्यतिरेकेण प्रवृत्त्यनुपपत्तेरतो नित्येऽपि कामितं फलमस्तीत्यर्थः ।
ननु वैदिकानां कर्मणां नियतफलत्वात्कामोऽपि नियतफलो युक्तस्तथा च नित्येषु तदभावान्न कामितं फलं सेत्स्यति तत्राऽऽह —
अनेकफलेति ।
अथ तानि पुरुषमात्रकर्तव्यानीति कुतो विवक्षितसंन्याससिद्धिस्तत्राऽऽह —
दारेति ।
नन्वविरक्तेनापि गृहिणा सकृदेव ताननुष्ठेयानि तावता विधेश्चरितार्थत्वात्तथा च कथं फलबाहुल्यमित्याशङ्क्याऽऽह —
पुनः पुनश्चेति ।
यावज्जीवोपबन्धादावृत्तिसिद्धिरिति भावः ।
तर्हि यावज्जीवश्रुतिवशादशेषाश्रमानुष्ठेयान्यनवरतमग्निहोत्रादीनीति कुतो यथोक्तसंन्यासोपपत्तिरित्याशङ्क्याऽऽह —
वर्षशतेति ।
अविरक्तगृहिविषयत्वं श्रुतिमन्त्रयोरित्युपसंहरति —
अत इति ।
यत्तु यावज्जीवश्रुतेरपवादो विश्वजित्सर्वमेधयोरिति तदपि कामिगृहिविषयत्वान्न ब्रह्मचर्यादेव प्रव्रजेदिति विध्यपवादकमित्याह —
तस्मिंश्चेति ।
परोक्तं लिङ्गमपि तद्विषयत्वान्न सर्वस्य वेदस्य कर्मावसानत्वं द्योतयतीत्याह —
यस्मिंश्चेति ।
यावज्जीवश्रुतेर्गत्यन्तरमाह —
इतरेति ।
कथं सा क्षत्रियवैश्यविषयत्वेन प्रवृत्ता त्रैवर्णिकानामपि पारिव्राज्यपरिग्रहादित्याशङ्क्याऽऽह —
न हीति ।
यावज्जीवश्रुतिवदैकाश्रम्यप्रतिपादकस्मृतीनामपि क्षत्रियादिविषयत्वमाह —
तथेति ।
श्रुतिस्मृतीनां कर्मतत्संन्यासार्थानां भिन्नविषयत्वे फलितमुपसंहरति —
तस्मादिति ।
यत्तु काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति तत्राऽऽह —
अनधिकृतानां चेति ।
सत्यामेव भार्यायां त्यक्ताग्निरुत्सन्नाग्निस्तस्यामसत्यां परित्यक्ताग्निरनग्निक इति भेदः ।
आश्रमान्तरविषयश्रुतिस्मृतीनामनधिकृतविषयत्वाभावे सिद्धमर्थं निगमयति —
तस्मादिति ॥ १५ ॥