ब्राह्मणान्तरस्य तात्पर्यमाह —
अधुनेति ।
तद्विधानं सर्वोपास्तिशेषत्वेनेति द्रष्टव्यम् । आख्यायिकाप्रवृत्तिरारम्भः । पितरि ब्रह्मचर्यमूषुरिति संबन्धः ।
प्रजापतिसमीपे ब्रह्मचर्यवासमात्रेण किमित्यसौ देवादिभ्यो हितं ब्रूयादित्याशङ्क्याऽऽह —
शिष्यत्वेति ।
शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्मचर्यस्येत्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहापोहशक्तानामेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।
विचारार्था प्लुतिरित्यङ्गीकृत्य प्रश्नमेव व्याचष्टे —
मयेति ।
ओमित्यनुज्ञामेव विभजते —
सम्यगिति ॥१॥