सार्थवादेन विधिना सिद्धमर्थमनुवदति —
दमादीति ।
कथं तस्य सर्वोपासनशेषत्वं तदाह —
दान्त इति ।
अलुब्ध इति च्छेदः संप्रत्युत्तरसन्दर्भस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
काण्डद्वयं सप्तम्यर्थः ।
अनन्तरसन्दर्भस्य तात्पर्यमाह —
अथेति ।
पापक्षयादिरभ्युदयस्तत्फलान्युपासनानीति शेषः ।
अनन्तरब्राह्मणमादाय तस्य संगतिमाह —
एष इत्यादिना ।
उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्शयन्प्रजापतित्वं साधयति —
यस्मिन्निति ।
कथं हृदयस्य सर्वत्वं तदाह —
उक्तमिति ।
सर्वत्वसंकीर्तनफलमाह —
तत्सर्वमिति ।
तत्र हृदयस्योपास्यत्वे सिद्धे सतीत्येतत् ।
फलोक्तिमुत्थाप्य व्याकरोति —
अभिहरन्तीति ।
यो वेदास्मै विदुषेऽभिहन्तीति संबन्धः ।
वेदनमेव विशदयति —
यस्मादित्यादिना ।
स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञातिव्यतिरिक्ताः ।
औचित्यमुक्ते फले कथयति —
विज्ञानेति ।
अत्रापीति दकाराक्षरोपासनेऽपि फलमुच्यत इति शेषः ।
तामेव फलोक्तिं व्यनक्ति —
हृदयायेति ।
अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।
नामाक्षरोपासनानि त्रीणि हृदयस्वरूपोपासनमेकमिति चत्वार्युपासानान्यत्र विवक्षितानीत्याशङ्क्याऽऽह —
एवमिति ॥१॥