इदमा ब्राह्मणं गृह्यते । तस्यावान्तरसंगतिमाह —
महदिति ।
आहुतीनामेव कर्मसमवायित्वं न त्वपामित्याशङ्क्याऽऽह —
अग्निहोत्रादीति ।
यद्यप्यापः सोमाद्या हूयमानाः कर्मसमवायिन्यस्तथाऽप्युत्तरकाले कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह —
ताश्चेति ।
कर्मसमवायित्वमपरित्यजन्त्यस्तत्संबन्धित्वेनाऽऽपः प्रथमं प्रवृत्तास्तन्नाशोत्तरकालं सूक्ष्मेणादृष्टेनाऽऽत्मनाऽतीन्द्रियेणाऽऽत्मना तिष्ठन्तीति योजना ।
आप इति विशेषणं भूतान्तरव्यासेधार्थमिति मतिं वारयति —
इतरेति ।
कथं तर्हि तासामेव श्रुतावुपादानं तदाह —
कर्मेति ।
इति तासामेवात्र ग्रहणमिति शेषः ।
विवक्षितपदार्थं निगमयति —
सर्वाण्येवेति ।
पदार्थमुक्तमनूद्य वाक्यार्थमाह —
ता इति ।
यास्ता यथोक्ता आपस्ता एवेति यच्छब्दानुबन्धेन योजना ।
सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूतान्तरसहिताभ्योऽद्भ्यो जायते तत्राऽऽह —
तदेतदिति ।
तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —
तत्सत्यमिति ।
सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —
कथमित्यादिना ।
तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —
कथमिति ।
महत्त्वमुपसंहरति —
यस्मादिति ।
विशेषणत्रये सिद्धे फलितमाह —
तस्मादिति ।
तस्यापीत्यपिशब्दो हृदयब्रह्मदृष्टान्तार्थः ।
बुद्धिपूर्वकमनृतं विदुषोऽपि बाधकमित्यभिप्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥