बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःषष्ठं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च ॥ १ ॥
मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात् ; मनसा चोपलभत इति मनोमयोऽयं पुरुषः ; भाःसत्यः, भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाःसत्यः, भास्वर इत्येतत् ; मनसः सर्वार्थावभासकत्वात् मनोमयत्वाच्च अस्य भास्वरत्वम् ; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मिन्नित्येतत् ; यथा व्रीहिर्वा यवो वा परिमाणतः, एवंपरिमाणः तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः । स एषः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी ; स्वामित्वेऽपि सति कश्चिदमात्यादितन्त्रः, अयं तु न तथा ; किं तर्हि अधिपतिः अधिष्ठाय पालयिता ; सर्वमिदं प्रशास्ति, यदिदं किञ्च यत्किञ्चित्सर्वं जगत् , तत्सर्वं प्रशास्ति । एवं मनोमयस्योपासनात् तथारूपापत्तिरेव फलम् । ‘तं यथा यथोपासते तदेव भवति’ (शत. ब्रा. १० । ५ । २ । २०) इति ब्राह्मणम् ॥

ब्राह्मणान्तरमुत्थापयति —

उपाधीनामिति ।

अनेकविशेषणत्वाच्च प्रत्येकं तेषामिति शेषः ।

तत्प्रायत्वे हेतुमाह —

मनसीति ।

प्रकारान्तरेण तत्प्रायत्वमाह —

मनसा चेति ।

तस्य भास्वररूपत्वं साधयति —

मनस इति ।

तस्य ध्यानार्थं स्थानं दर्शयति —

तस्मिन्निति ।

औपाधिकमिदं परिमाणं स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह —

स एष इति ।

यदुक्तं सर्वस्येशान इति तन्निगमयति —

सर्वमिति ।

यथाऽन्यत्र तथाऽत्राफलमिदमुपासनमकार्यमिति चेन्नेत्याह —

एवमिति ॥१॥