ब्राह्मणान्तरमवतारयति —
पुनरिति ।
तां धेनुमुपासीतेति संबन्धः ।
वाचो धेन्वाश्च सादृश्यं विशदयति —
यथेत्यादिना ।
स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —
के पुनरित्यादिना ।
कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —
आभ्यां हीति ।
हन्त यद्यपेक्षितमित्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।
मनसा हीत्यादिनोक्तं विवृणोति —
मनसेति ।
फलाश्रवणादेतदुपासनमकिञ्चित्करमित्याशङ्क्याऽऽह —
एवमिति ।
ताद्भाव्यं यथोक्तवागुपाधिकब्रह्मरूपत्वमित्यर्थः ॥१॥