ब्राह्मणान्तरमनूद्य तस्य तात्पर्यमाह —
अयमिति ।
अन्नपानस्य पक्ता ।
तत्सद्भावे मानमाह —
तस्येति ।
क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः ।
कौक्षेयाग्न्युपाधिकस्य परस्योपासने प्रस्तुते सतीत्याह —
तत्रेति ॥१॥