ब्राह्मणान्तरस्य तात्पर्यमाह —
सर्वेषामिति ।
फलं चाश्रुतफलानामिति शेषः ।
किमिति विद्वान्वायुमागच्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छतीत्याशङ्क्याऽऽह —
अन्तरिक्ष इति ।
आदित्यं प्रत्यागमने हेतुमाह —
आदित्य इति ।
उक्तेऽर्थे वाक्यं पातयति —
तस्मा इति ।
बहून्कल्पानित्यवान्तरकल्पोक्तिः ॥१॥