गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह —
स य इति ।
यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् ।
प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह —
कल्पयित्वेति ।
उक्तमेव संगृह्णाति —
पादत्रयेति ।
कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह —
गायत्रीति ।
अङ्गीकृत्योत्तरवाक्यमुत्थापयति —
दातेति ।
तदेवाऽऽकाङ्क्षापूर्वकमाह —
कस्मादिति ।
वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।
तत्रैव वैधर्म्यदृष्टान्तमाह —
यथेति ।
तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः ।
कुत इत्यादिवाक्यस्य तात्पर्यमाह —
एतान्यपीति ।
गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —
तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥