वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे —
यो हेत्यादिना ।
फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —
उच्यतामित्यादिना ।
वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —
वासयतीति ।
वासयत्यतिशयेनेत्युक्तं विशदयति —
वाग्ग्मिनो हीति ।
वासयन्ति चेति द्रष्टव्यम् ।
वस्ते वेत्युक्तं स्फुटयति —
आच्छादनार्थस्य वेति ।
आच्छादनार्थत्वमनुभवेन साधयति —
अभिभवन्तीति ।
उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥