वाक्यान्तरमादाय विभजते —
यो ह वै संपदमिति ।
प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते —
किं पुनरिति ।
श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —
कथमिति ।
अध्येयत्वमध्ययनार्हत्वम् ।
तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह —
वेदेति ।
पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥