उक्ता वसिष्ठत्वादिगुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्शयितुमाख्यायिकां करोति —
ते हेत्यादिना ।
ईयसुन्प्रयोगस्य तात्पर्यमाह —
शरीरं हीति ।
किमिति शरीरस्य पापीयस्त्वमुच्यते तदाह —
वैराग्यार्थमिति ।
शरीरे वैराग्योत्पादनद्वारा तस्मिन्नहंममाभिमानपरिहारार्थमित्यर्थः । वसिष्ठो भवतीत्युक्तवानिति संबन्धः ।
किमिति साक्षादेव मुख्यं प्राणं वसिष्ठत्वादिगुणं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥