सा ह वागिति प्रतीकमादाय व्याचष्टे —
प्रथममिति ।
तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।
बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि —
यद्येवमित्यादिना ।
एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः ।
यदिदमित्यादि वाक्यं व्याचष्टे —
यदिदमिति ।
प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।
तदेव स्फुटयति —
यत्किञ्चिदिति ।