बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवःस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवावलेपनमाज्यं मन्थे संस्रावयति । एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गात् ज्येष्ठश्रेष्ठादिप्राणविद एव अस्मिन् कर्मण्यधिकारः । ‘रेतसे’ इत्यारभ्य एकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति ॥

ज्येष्ठायेत्यादिमन्त्रेषु ध्वनितमर्थमाह —

एतस्मादेवेति ।

द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे —

रेतस इत्यारभ्येति ।

संस्रवः स्रुवावलिप्तमाज्यम् ॥२ – ३ ॥